text
stringlengths
0
1.67M
स्वामिविवेकानन्दद्वारा लिखिता योगसूत्रस्य वृत्तिः
कान्त्यम्भःपूरपूर्णे लसदसितवलीभङ्गभास्वत्तरङ्गे
उव्_६।८च्द्: आतापी।निपको।नित्यम्।प्राप्नुयाद्।दुह्ख।सङ्क्षयम् ॥
सर्वद्वाराधिदेवानां श्रीनन्दीदेवनायकः ।
विवाहहेतोस्तस्याथ सूनोः समरवर्मणः ।
यस्यां दृष्टस्वरूपायाम् अधिकारो निवर्तते ॥ स्र्त्प्_७७ ॥
मद्गवश्चैव गृधाश्च काकोलूकास्तथैव च
धूलिधूसरसर्वाङ्गस्त्यक्तनिद्रो महाबलः १०
होवाच याज्ञवल्क्यः सोऽविमुक्त उपास्यो य एषोऽन-न्तोऽव्यक्त आत्मा
सन्दिग्धत्वं जिज्ञास्यस्य यदि तत्स्वप्रकाशजीवाभिन्नं स्यात् । न चैतदस्ति । जिज्ञास्ये ब्रह्म-
नागा विद्रुमलिङ्गं च नाम लोकत्रयङ्करम्॥ १३.१५७ ॥
वेदान्त-विज्ञानसुनिश्चितार्थाः सन्न्यासयोगाद् यतयः शुद्धसत्त्वाः ॥३॥
भिन्नषड्जकृतिस्फोटभिन्नमानसवेदनः ।
९५ चत्वारि स्मृत्युपस्थानानि कायवेदनाचित्तधर्मसन्निश्रितानां चिकित्सा :
अन्यो न दृश्यते लोके याज्ञिको यो हि तत्र वै॥
निकृत्या जितवन्तस्ते किं नु तेषां परं शुभम् ॥ KK05-01-003-008c
ये पापाधिक्यवशात् जाताः ते स्त्रियः स्युः, वैश्याः स्युः, शूद्रा वा स्युः ते सर्वेऽपि मां सेवमानाः परमां शान्तिम् अवाप्नुवन्तीति निश्चितम् ।
भ्प्_०७।०७।०१८।१ जन्माद्याः षड् इमे भावा दृष्टा देहस्य नात्मनः
र्व्_१०,०२६।०३च् अभि प्सुरः प्रुषायति व्रजं न आ प्रुषायति ॥
संयोगे परभूते स्यान्मात्रिकस्तु द्विरूपवत् ६०
श्रीशुक उवाच अथ कस्यचिद्द्विजवरस्याङ्गिरःप्रवरस्य शमदमतपः- स्वाध्यायाध्ययनत्यागसन्तोषतितिक्षाप्रश्रयविद्या- नसूयात्मज्ञानानन्दयुक्तस्यात्मसदृशश्रुतशीलाचार- रूपौदार्यगुणा नवसोदर्या अङ्गजा बभूवुर्मिथुनं च यवीयस्यां भार्यायाम् ॥ १॥ यस्तु तत्र पुमांस्तं परमभागवतं राजर्षिप्रवरं भरत- मुत्सृष्टमृगशरीरं चरमशरीरेण विप्रत्वं गतमाहुः ॥ २॥ तत्रापि स्वजनसङ्गाच्च भृशमुद्विजमानो भगवतः कर्मबन्धविध्वंसनश्रवणस्मरणगुणविवरण- चरणारविन्दयुगलं मनसा विदधदात्मनः प्रतिघातमाशङ्कमानो भगवदनुग्रहेणानुस्मृत- स्वपूर्वजन्मावलिरात्मानमुन्मत्तजडान्धबधिर- स्वरूपेण दर्शयामास लोकस्य ॥ ३॥ तस्यापि ह वा आत्मजस्य विप्रः पुत्रस्नेहानुबद्धमना आ समावर्तनात्संस्कारान् यथोपदेशं विदधान उपनीतस्य च पुनः शौचाचमनादीन् कर्मनियमा- ननभिप्रेतानपि समशिक्षयदनुशिष्टेन हि भाव्यं पितुः पुत्रेणेति ॥ ४॥ स चापि तदु ह पितृसन्निधावेवासध्रीचीनमिव स्म करोति छन्दांस्यध्यापयिष्यन् सह व्याहृतिभिः सप्रणवशिरस्त्रिपदीं सावित्रीं ग्रैष्मवासन्तिकान् मासानधीयानमप्यसमवेतरूपं ग्राहयामास ॥ ५॥ एवं स्वतनुज आत्मन्यनुरागावेशितचित्तः शौचाध्ययनव्रतनियमगुर्वनलशुश्रूषणाद्यौप- कुर्वाणककर्माण्यनभियुक्तान्यपि समनुशिष्टेन भाव्यमित्यसदाग्रहः पुत्रमनुशास्य स्वयं तावदनधिगतमनोरथः कालेनाप्रमत्तेन स्वयं गृह एव प्रमत्त उपसंहृतः ॥ ६॥ अथ यवीयसी द्विजसती स्वगर्भजातं मिथुनं सपत्न्या उपन्यस्य स्वयमनुसंस्थयापतिलोकमगात् ॥ ७॥ पितर्युपरते भ्रातर एनमतत्प्रभावविदस्त्रय्यां विद्यायामेव पर्यवसितमतयो न परविद्यायां जडमतिरिति भ्रातु- रनुशासननिर्बन्धान्न्यवृत्सन्त ॥ ८॥ स च प्राकृतैर्द्विपदपशुभिरुन्मत्तजडबधिरमूके- त्यभिभाष्यमाणो यदा तदनुरूपाणि प्रभाषते कर्माणि च स कार्यमाणः परेच्छया करोति विष्टितो वेतनतो वा याच्ञया यदृच्छया वोपसादितमल्पं बहु मृष्टं कदन्नं वाभ्यवहरति परं नेन्द्रियप्रीतिनिमित्तम् । नित्यनिवृत्तनिमित्तस्वसिद्धविशुद्धानुभवानन्द- स्वात्मलाभाधिगमः सुखदुःखयोर्द्वन्द्वनिमित्तयो- रसम्भावितदेहाभिमानः ॥ ९॥ शीतोष्णवातवर्षेषु वृष इवानावृताङ्गः पीनः संहननाङ्गः स्थण्डिलसंवेशनानुन्मर्दनामज्जन- रजसा महामणिरिवानभिव्यक्तब्रह्मवर्चसः कुपटावृतकटिरुपवीतेनोरुमषिणा द्विजातिरिति ब्रह्मबन्धुरिति संज्ञयातज्ज्ञजनावमतो विचचार ॥ १०॥ यदा तु परत आहारं कर्मवेतनत ईहमानः स्वभ्रातृभिरपि केदारकर्मणि निरूपितस्तदपि करोति किन्तु न समं विषमं न्यूनमधिकमिति वेद कणपिण्याकफलीकरणकुल्माषस्थाली- पुरीषादीन्यप्यमृतवदभ्यवहरति ॥ ११॥ अथ कदाचित्कश्चिद्वृषलपतिर्भद्रकाल्यै पुरुषपशु- मालभतापत्यकामः ॥ १२॥ तस्य ह दैवमुक्तस्य पशोः पदवीं तदनुचराः परिधावन्तो निशि निशीथसमये तमसा- वृतायामनधिगतपशव आकस्मिकेन विधिना केदारान् वीरासनेन मृगवराहादिभ्यः संरक्षमाणमङ्गिरःप्रवरसुतमपश्यन् ॥ १३॥ अथ त एनमनवद्यलक्षणमवमृश्य भर्तृकर्म- निष्पत्तिं मन्यमाना बद्ध्वा रशनया चण्डिका- गृहमुपनिन्युर्मुदा विकसितवदनाः ॥ १४॥ अथ पणयस्तं स्वविधिनाभिषिच्याहतेन वाससाऽऽच्छाद्य भूषणालेपस्रक्तिलकादिभि- रुपस्कृतं भुक्तवन्तं धूपदीपमाल्यलाज- किसलयाङ्कुरफलोपहारोपेतया वैशस- संस्थया महता गीतस्तुतिमृदङ्गपणवघोषेण च पुरुषपशुं भद्रकाल्याः पुरत उपवेशयामासुः ॥ १५॥ अथ वृषलराजपणिः पुरुषपशोरसृगासवेन देवीं भद्रकालीं यक्ष्यमाणस्तदभिमन्त्रितमसि- मतिकरालनिशितमुपाददे ॥ १६॥ इति तेषां वृषलानां रजस्तमःप्रकृतीनां धनमदरज उत्सिक्तमनसां भगवत्कला- वीरकुलं कदर्थीकृत्योत्पथेन स्वैरं विहरतां हिंसाविहाराणां कर्मातिदारुणं यद्ब्रह्मभूतस्य साक्षाद्ब्रह्मर्षिसुतस्य निर्वैरस्य सर्वभूतसुहृदः सूनायामप्यननुमतमालम्भनं तदुपलभ्य ब्रह्मतेजसातिदुर्विषहेण दन्दह्यमानेन वपुषा सहसोच्चचाट सैव देवी भद्रकाली ॥॥ १७॥ भृशममर्षरोषावेशरभसविलसितभ्रुकुटि- विटपकुटिलदंष्ट्रारुणेक्षणाटोपातिभयानक- वदना हन्तुकामेवेदं महाट्टहासमतिसंरम्भेण विमुञ्चन्ती तत उत्पत्य पापीयसां दुष्टानां तेनैवासिना विवृक्णशीर्ष्णां गलात्स्रवन्तमसृगासव- मत्युष्णं सह गणेन निपीयातिपानमदविह्वलोच्चैस्तरां स्वपार्षदैः सह जगौ ननर्त च विजहार च शिरः कन्दुकलीलया ॥ १८॥ एवमेव खलु महदभिचारातिक्रमः कार्त्स्न्येनात्मने फलति ॥ १९॥ न वा एतद्विष्णुदत्त महदद्भुतं यदसम्भ्रमः स्वशिरश्च्छेदन आपतितेऽपि विमुक्तदेहाद्यात्मभाव- सुदृढहृदयग्रन्थीनां सर्वसत्त्वसुहृदात्मनां निर्वैराणां साक्षाद्भगवतानिमिषारिवरायुधेनाप्रमत्तेन तैस्तैर्भावैः परिरक्ष्यमाणानां तत्पादमूलमकुतश्चिद्भयमुपसृतानां भागवतपरमहंसानाम् ॥ २०॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे जडभरतचरिते नवमोऽध्यायः ॥ ९॥
कस्तत्र निन्दकश्चैव नरके पच्यते भृशम् ॥ 010c
पूर्वजन्मतपोयोगात्स्मरणो लिङ्गधारणात् ।।८५।।
फाल्गुने कृष्णचतुर्दश्यां रविवारो यदा भवेत् ।
रावणस्य वचः श्रुत्वा राक्षसास्तमथाब्रुवन् ।
मूत्रं चोपनिषत्प्रोक्तं कुर्याद्भस्म ततः परम् २८
नवभिर्निशितैर्बाणैराजघान स्तनान्तरे
मनसिजतरुपुष्पं रागबन्धप्रवालम् ।
मन्दारकुन्दकरवीरलवङ्गपुष्पैः
ताभ्यामूर्जितवीर्याभ्यामाप्यायितपराक्रमः 003a
मध्यमाभ्यां नमः । क्लीं अनामिकाभ्यां नमः । क्लीं कनिष्ठाभ्यां
२।१५८ सङ्ख्याप्रमाणसंस्थान- निरपेक्षः प्रवर्तते
अङ्कोलैः करवीरैश्च पुन्नगैः पाटलैर्वृताम्
आलोक्य प्रजपेल्लक्षं कविराट् साधको भवेत् ।
अभ्युदयापवर्ग-लक्षणानां सृतिर् यस्याः सरस इव निर्झराणां तां ते तव
त्यक्त्वा कलेवरं तूर्णं श्वतेद्द्वीपं प्रयान्ति ते ।।
शरशक्तिगदाभिस्ते खङ्गैश्चामिततेजसः
सोमस्योत्तिष्ठमानस्य पौर्णमास्यां बलिं हरेत् ॥ 004c
आराधयिष्ये तपसा देवमेकाक्षराह्वयम् ।
उल्कापातश्च दिग्दाहः परिवेशस्तथैव च ॥ २६३.१२ ॥
यथा जीर्णस्य गेहस्य $ संस्कारेण चिरस्थितिः &
मध्वः । पिबतम् । मधु-पेभिः । आस-भिः । उत । प्रियम् । मधुने । युञ्जाथाम् । रथम् । आ । वरनिम् । मधुना । जिन्वथः । पथः । दृतिम् । वहेथेइति । मधु-मन्तम् । अश्विना ॥ र्व्_४,४५।३ ॥
एभ्यः संसारकान्तारे न विश्रान्तमभून्मनः॥१०।७॥
तत्र कालं चिरं घोरं पच्यन्ते पापकारिणः।।
तथोपदिश जन्मादि यथा न स्यात् कृपानिधे ॥ ३॥
वातपित्तश्लेष्मजन्या व्याधयः कोटिशस्तनौ ।
भवबन्धविनिर्मुक्तः स जीवन्मुक्तलक्षणः ॥ ४३७॥ स जीवन्मुक्त इष्यते
यदल्पमिव दृश्येत तन्महत्त्वाय कल्पते ।।
भ्प्_०६।१४।००८।१ परीक्षितो ऽथ सम्प्रश्नं भगवान् बादरायणिः
सो ऽहमुपगत्य त्वरमाणो व्यतिकरमिममधृतिकरमशरणकृपणबहुयुवतिमरणमतिकरुणमत्रभवते गुरवे निवेदितवान्ऽ इति ।