bpHigh's picture
Upload 2 files
772c6ef verified
raw
history blame
No virus
22.6 kB
Sloka,Class
यो यस्मिन् कर्माणि कुशलस्तं तस्मित्रैव योजयेत् ॥ ,sanskrit-slogan
अध्ययनेन/अध्ययनं वीना ज्ञानं न भवति ॥ ,sanskrit-slogan
पुष्पं पुष्पं विचिन्वीत मूलच्छेदं न कारयेत् । मालाकार इवारामे न यथाङ्गरकारकः ॥ ,Vidur Niti Slokas
मृजया रक्ष्यते रूपम् ॥ ,sanskrit-slogan
मूर्खश्चिरायुर्जातोऽपि तस्माज्जातमृतो वरः। मृतः स चाल्पदुःखाय यावज्जीवं जडो दहेत्॥,Chanakya Slokas
न संरम्भेणारभते त्रिवर्गमाकारितः शंसति तत्त्वमेव । न मित्रार्थरोचयते विवादं नापुजितः कुप्यति चाप्यमूढः ॥ ,Vidur Niti Slokas
कालः पचति भूतानि कालः संहरते प्रजाः। कालः सुप्तेषु जागर्ति कालो हि दुरतिक्रमः॥,Chanakya Slokas
गोभिः पशुभिरश्वैश्च कृष्या च सुसमृद्धया। कुलानि न प्ररोहन्ति यानि हिनानि वृत्ततः ॥ ,Vidur Niti Slokas
कार्यान्तरे दीघर्सूत्रता न कर्तव्या ॥ ,sanskrit-slogan
आचारात् एव बुद्धिः भवति ॥ ,sanskrit-slogan
शैले शैले न माणिक्यं मौक्तिकं न गजे गजे। साधवो न हि सर्वत्र चन्दनं न वने वने ॥,Chanakya Slokas
आपत्सु स्नेहसंयुक्तं मित्रम् ॥ ,sanskrit-slogan
विनयस्य मूलं विनयः ॥ ,sanskrit-slogan
बलं विद्या च विप्राणां राज्ञः सैन्यं बलं तथा। बलं वित्तं च वैश्यानां शूद्राणां च कनिष्ठता ॥,Chanakya Slokas
अर्थम् महान्तमासाद्य विद्यामैश्वर्यमेव वा। विचरत्यसमुन्नद्धो य: स पंडित उच्यते ॥ ,Vidur Niti Slokas
अप्रशस्तानि कार्याणि यो मोहादनुतिष्ठति। स तेषां विपरिभ्रंशाद् भ्रंश्यते जीवितादपि ॥ ,Vidur Niti Slokas
प्रभूतं कार्यमपि वा तत्परः प्रकर्तुमिच्छति। सर्वारम्भेण तत्कार्यं सिंहादेकं प्रचक्षते॥,Chanakya Slokas
दम्भं मोहं मात्सर्यं पापकृत्यं राजद्धिष्टं पैशुनं पूगवैरम् । मत्तोन्मत्तैदुर्जनैश्चापि वादं यः प्रज्ञावान् वर्जयेत् स प्रानः ॥ ,Vidur Niti Slokas
माता च कमला देवी पिता देवो जनार्दनः। बान्धवा विष्णुभक्ताश्च स्वदेशो भुवनत्रयम्॥,Chanakya Slokas
दह्यमानां सुतीव्रेण नीचाः परयशोऽग्निना। अशक्तास्तत्पदं गन्तुं ततो निन्दां प्रकुर्वते॥,Chanakya Slokas
कालवित् कार्यं साधयेत् ॥ ,sanskrit-slogan
माता शत्रुः पिता वैरी येनवालो न पाठितः। न शोभते सभामध्ये हंसमध्ये वको यथा ॥,Chanakya Slokas
यथा चतुर्भिः कनकं परीक्ष्यते निर्घषणच्छेदन तापताडनैः। तथा चतुर्भिः पुरुषः परीक्ष्यते त्यागेन शीलेन गुणेन कर्मणा॥,Chanakya Slokas
उपदेशो न दातव्यो यादृशे तादृशे जने ॥ ,sanskrit-slogan
अनर्थकं विप्रवासं गृहेभ्यः पापैः सन्धि परदाराभिमर्शम् । दम्भं स्तैन्य पैशुन्यं मद्यपानं न सेवते यश्च सुखी सदैव ॥ ,Vidur Niti Slokas
य आत्मनाऽपत्रपते भृशं नरः स सर्वलोकस्य गुरुभर्वत्युत । अनन्ततेजाः सुमनाः समाहितः स तेजसा सूर्य इवावभासते ॥ ,Vidur Niti Slokas
कुर्वाणो नावसीदति ॥ ,sanskrit-slogan
सा विद्या या विमुक्तये ॥ ,sanskrit-slogan
एकेन शुष्कवृक्षेण दह्यमानेन वह्निना। दह्यते तद्वनं सर्वं कुपुत्रेण कुलं यथा॥,Chanakya Slokas
भोज्यं भोजनशक्तिश्च रतिशक्तिर वरांगना । विभवो दानशक्तिश्च नाऽल्पस्य तपसः फलम् ॥,Chanakya Slokas
तद् रूपं यत्र गुणाः ॥ ,sanskrit-slogan
असूयको दन्दशूको निष्ठुरो वैरकृच्छठः। स कृच्छं महदाप्नोति नचिरात् पापमाचरन् ॥ ,Vidur Niti Slokas
असम्यगुपयुक्तं हि ज्ञानं सुकुशलैरपि। उपलभ्यं चाविदितं विदितं चाननुष्ठितम्॥ ,Vidur Niti Slokas
ईश्वरस्य पूजा वृथा न भवति ॥ ,sanskrit-slogan
यस्य पुत्रो वशीभूतो भार्या छन्दानुगामिनी। विभवे यस्य सन्तुष्टिस्तस्य स्वर्ग इहैव हि ॥,Chanakya Slokas
अर्थमूलं धरकामौ ॥ ,sanskrit-slogan
न्यायार्जितस्य द्रव्यस्य बोद्धव्यौ द्वावतिक्रमौ । अपात्रे प्रतिपत्तिश्च पात्रे चाप्रतिपादनम् ॥ ,Vidur Niti Slokas
धर्मार्थकाममोक्षाणां यस्यैकोऽपि न विद्वते। अजागलस्तनस्येव तस्य जन्म निरर्थकम्॥,Chanakya Slokas
बुद्धो कलूषभूतायां विनाशे प्रत्युपस्थिते। अनयो नयसङ्कशो हृदयात्रावसर्पति ॥ ,Vidur Niti Slokas
कवयः किं न पश्यन्ति किं न कुर्वन्ति योषितः। मद्यपा किं न जल्पन्ति किं न खादन्ति वायसाः॥,Chanakya Slokas
गन्धेन गावः पश्यन्ति वेदैः पश्यन्ति ब्राह्मणाः। चारैः पश्यन्ति राजानश्चक्षुर्भ्यामितरे जनाः ॥ ,Vidur Niti Slokas
त्यजेद्धर्म दयाहीनं विद्याहीनं गुरुं त्यजेत्। त्यजेत्क्रोधमुखी भार्या निःस्नेहान्बान्धवांस्यजेत्॥,Chanakya Slokas
प्राप्यापदं न व्यथते कदाचि- दुद्योगमन्विच्छति चाप्रमत्तः। दुःखं च काले सहते महात्मा धुरन्धरस्तस्य जिताः सप्तनाः ॥ ,Vidur Niti Slokas
षड् दोषा: पुरुषेणेह हातव्या भूतिमिच्छिता । निद्रा तन्द्रा भयं क्रोध आलस्यं दीर्घसूत्रता ॥ ,Vidur Niti Slokas
इन्द्रियाणि च संयम्य बकवत्पण्डितो नरः। देशकालः बलं ज्ञात्वा सर्वकार्याणि साधयेत्॥,Chanakya Slokas
ऋणकर्ता पिता शत्रुर्माता च व्यभिचारिणी। भार्या रुपवती शत्रुः पुत्र शत्रु र्न पण्डितः॥,Chanakya Slokas
न दैवप्रमाणानां कार्यसिद्धिः ॥ ,sanskrit-slogan
यथा खनित्वा खनित्रेण भूतले वारि विन्दति। तथा गुरुगतां विद्यां शुश्रुषुरधिगच्छति॥,Chanakya Slokas
असंहताः विंनश्यन्ति ॥ ,sanskrit-slogan
न जीयते चानुजिगीषतेऽन्यान् न वैरकृच्चाप्रतिघातकश्च। निन्दाप्रशंसासु तमस्वभावो न शोचते ह्रष्यति नैव चायम् ॥ ,Vidur Niti Slokas
वाक्सायका वदनात्रिष्पतन्ति यैराहतः शोचति रात्र्यहानि। परस्य नामर्मसु ते पतन्ति तान् पण्डितो नावसृजेत् परेभ्यः ॥ ,Vidur Niti Slokas
किं जातैर्बहुभिः पुत्रैः शोकसन्तापकारकैः। वरमेकः कुलावल्भबो यत्र विश्राम्यते कुलम्॥,Chanakya Slokas
एकोदरसमुद्भूता एक नक्षत्र जातका। न भवन्ति समा शीले यथा बदरिकण्टकाः॥,Chanakya Slokas
अन्तो नास्ति पिपासायाः ॥ ,sanskrit-slogan
सत्यं रुपं श्रुतं विद्या कौल्यं शीलं बलं धनम्। शौर्यं य च चित्रभाष्यं च दशेमे स्वर्गयोनयः ॥ ,Vidur Niti Slokas
गूढ मैथुनकारित्वं काले काले च संग्रहम्। अप्रमत्तवचनमविश्वासं पञ्च शिक्षेच्च वायसात्॥,Chanakya Slokas
सर्वौषधीनामममृतं प्रधानं सर्वेषु सौख्येष्वशनं प्रधानम्। सर्वेन्द्रियाणां नयनं प्रधानं सर्वेषु गात्रेषु शिरः प्रधानम्॥,Chanakya Slokas
सोत्साहानां नास्त्यसाध्यं नराणाम् ॥ ,sanskrit-slogan
संसारातपदग्धानां त्रयो विश्रान्तिहेतवः। अपत्यं च कलत्रं च सतां संगतिरेव च॥,Chanakya Slokas
एकः क्षमावतां दोषो द्वतीयो नोपपद्यते। यदेनं क्षमया युक्तमशक्तं मन्यते जनः ॥ ,Vidur Niti Slokas
मौंन सर्व थेसाधकम् ॥ ,sanskrit-slogan
आपदर्थे धनं रक्षेद् दारान् रक्षेद् धनैरपि। आत्मानं सततं रक्षेद् दारैरपि धनैरपि ॥,Chanakya Slokas
सन्तोषस्त्रिषु कर्तव्यः स्वदारे भोजने धने। त्रिषु चैव न कर्तव्योऽध्ययने जपदानयोः॥,Chanakya Slokas
अकामान् कामयति यः कामयानान् परित्यजेत्। बलवन्तं च यो द्वेष्टि तमाहुर्मूढचेतसम् ॥ ,Vidur Niti Slokas
हेतुतः शत्रुमित्रे भविष्यतः ॥ ,sanskrit-slogan
संतोषवत् न किमपि सुखम् अस्ति ॥ ,sanskrit-slogan
नाप्राप्यमभिवाञ्छन्ति नष्टं नेच्छन्ति शोचितुम् । आपत्सु च न मुह्यन्ति नराः पण्डितबुद्धयः ॥ ,Vidur Niti Slokas
मित्रता-उपकारफलं मित्रमपकारोऽरिलक्षणम् ॥ ,sanskrit-slogan
संस्कृतं देवानं भाषा अस्ति ॥ ,sanskrit-slogan
" कश्चित् कस्यचिन्मित्रं, न कश्चित् कस्यचित् रिपु:। अर्थतस्तु निबध्यन्ते, मित्राणि रिपवस्तथा ॥",Chanakya Slokas
सकुले योजयेत्कन्या पुत्रं पुत्रं विद्यासु योजयेत्। व्यसने योजयेच्छत्रुं मित्रं धर्मे नियोजयेत् ॥,Chanakya Slokas
आलसस्य लब्धमपि रक्षितुं न शक्यते ॥ ,sanskrit-slogan
पंचैव पूजयन् लोके यश: प्राप्नोति केवलं । देवान् पितॄन् मनुष्यांश्च भिक्षून् अतिथि पंचमान् ॥ ,Vidur Niti Slokas
धनहीनो न च हीनश्च धनिक स सुनिश्चयः। विद्या रत्नेन हीनो यः स हीनः सर्ववस्तुषु॥,Chanakya Slokas
यदि सन्तं सेवति यद्यसन्तं तपस्विनं यदि वा स्तेनमेव। वासो यथा रङ्गवशं प्रयाति तथा स तेषां वशमभ्युपैति ॥ ,Vidur Niti Slokas
अपुत्रस्य गृहं शून्यं दिशः शून्यास्त्वबान्धवाः। मूर्खस्य हृदयं शून्यं सर्वशून्यं दरिद्रता॥,Chanakya Slokas
राजपत्नी गुरोः पत्नी मित्रपत्नी तथैव च। पत्नीमाता स्वमाता च पञ्चैताः मातर स्मृताः॥,Chanakya Slokas
आरोग्यमानृण्यमविप्रवासः सद्भिर्मनुष्यैस्सह संप्रयोगः। स्वप्रत्यया वृत्तिरभीतवासः षट् जीवलोकस्य सुखानि राजन् ॥ ,Vidur Niti Slokas
सदा सत्यं वदेत् ॥ ,sanskrit-slogan
एकं हन्यान्न वा हन्यादिषुर्मुक्तो धनुष्मता। बुद्धिर्बुद्धिमतोत्सृष्टा हन्याद् राष्ट्रम सराजकम् ॥ ,Vidur Niti Slokas
स्वयं कर्म कोत्यात्मा स्वयं तत्फलमश्नुते। स्वयं भ्रमति संसारे स्वयं तस्माद्विमुच्यते॥,Chanakya Slokas
स्वभावो दुरतिक्रमः ॥ ,sanskrit-slogan
अभ्यासाद्धार्यते विद्या कुलं शीलेन धार्यते। गुणेन ज्ञायते त्वार्य कोपो नेत्रेण गम्यते॥,Chanakya Slokas
इज्याध्ययनदानानि तपः सत्यं क्षमा घृणा। अलोभ इति मार्गोऽयं धर्मस्याष्टविधः स्मृत ॥ ,Vidur Niti Slokas
वाचा च मनसः शौचं शौचमिन्द्रियनिग्रहः। सर्वभूतदया शौचमेतचछौचं परमार्थिनाम्॥,Chanakya Slokas
साधुम्यस्ते निवर्तन्ते पुत्रः मित्राणि बान्धवाः। ये च तैः सह गन्तारस्तद्धर्मात्सुकृतं कुलम्॥,Chanakya Slokas
वह्वशी स्वल्पसन्तुष्टः सुनिद्रो लघुचेतनः। स्वामिभक्तश्च शूरश्च षडेते श्वानतो गुणाः॥,Chanakya Slokas
अर्थनाश मनस्तापं गृहिण्याश्चरितानि च। नीचं वाक्यं चापमानं मतिमान्न प्रकाशयेत॥,Chanakya Slokas
यस्य कृत्यं न जानन्ति मन्त्रं वा मन्त्रितं परे। कृतमेवास्य जानन्ति स वै पण्डित उच्यते ॥ ,Vidur Niti Slokas
निस्पृहो नाधिकारी स्यान्न कामी भण्डनप्रिया। नो विदग्धः प्रियं ब्रूयात् स्पष्ट वक्ता न वञ्चकः॥,Chanakya Slokas
एतयोपमया धीरः सत्रमेत बलीयसे । इन्द्राय स प्रणमते नमते यो बलीयसे ॥ ,Vidur Niti Slokas
छात्राः अनुशासिताः भवेयुः ॥ ,sanskrit-slogan
स्वजातिः दुरतिक्रमा ॥ ,sanskrit-slogan
यद् भविष्यो विनश्यति ॥ ,sanskrit-slogan
यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः। यस्यार्थाः स पुमांल्लोके यस्यार्थाः स च पण्डितः॥,Chanakya Slokas
अधमा धनमिच्छन्ति धनं मानं च मध्यमाः। उत्तमा मानमिच्छन्ति मानो हि महतां धनम्॥,Chanakya Slokas